Chintayeham Sada
music
carnatic
nottuswaram
shankarabharanam
muthuswamy dikshithar
चिन्तयेऽहं सदा चित्सभानायकं
चिन्तितार्थदायकं जीवेश्वरभेदापहम्
चिन्तामणिस्वरूपं ताण्डवेश्वरं
शान्तं मुनिमिहितं सगुरुगुहं शङ्करम्
सन्ततं साम्बमीशं मुदा भावयेऽ-
नन्तकोटिब्रह्माण्डनाथं विमलम्
आदिमध्यान्तवर्जं निराधारमाकाश-
नादान्तस्थं सुन्दरं सुधांशुमौलिं शिवं
भ्रान्तिवारणनिपुणं भानुकोटिभास्वरम्
दन्तिचर्माम्बरं धनदहितं
भारतीकान्तहरिनुतं करधृतमृगमे -
कान्तहृदये शिवकामसुन्दरीपतिं