Vallabha Nayakasya

music
carnatic
krithi
begada
muthuswamy dikshithar

Pallavi

वल्लभा नायकस्य भक्तो भवामि

(मध्यम काल साहित्यम्)

वाञ्छितार्थ दायकस्य वर मूषिक वाहनस्य

Charanam

पल्लव पद मृदु-तरस्य पाशाङ्कुशादि धरस्य

मल्लिका जाती चम्पक हारस्य मणि मालस्य

(मध्यम काल साहित्यम्)

वल्ली विवाह कारणस्य गुरु गुह पूजितस्य

काळी कला मालिनी कमलाक्षी सन्नुतस्य